॥ प्रस्तावना ॥
प्रतिवर्षं प्रतिप्रान्तम् अभ्यासवर्गाणाम् आयोजनं भवेत् इति अस्ति संस्कृतभारत्याः कश्चन आग्रहः। तस्य प्रबलं कारणम् अपि वर्तते यत् समितौ २१ उत्तरदायित्वानि सन्ति। प्रत्येकम् उत्तरदायित्वस्य पृथक् पृथक् कार्याणि भवन्ति। तानि कार्याणि कानि इति सर्वे अपि जानीयुः। तेन कार्यकरणे सौकर्यं भवेत्।
कदाचित् सम्पर्कः, संवादः, प्रवासः इत्यादीनि कानिचन कार्याणि समानानि भवन्ति। पार्थक्येन करणीयानि कार्याणि कानि इति सर्वे जानीयुः इति अपेक्षा।
अभ्यासवर्गेषु कार्यशिक्षणं, कार्यकर्तृशिक्षणम् एव प्रधानतया देयम्। प्रतिवर्षं केचन कार्यकर्तारः नूतनाः भवन्ति। केषाञ्चन उत्तरदायित्वानि परिवर्तितानि अपि भवन्ति। तस्मात् एतत् प्रशिक्षणं प्रतिवर्षं प्रतिप्रान्तम् अनिवार्यम्। अनेन कार्यकर्तृणां कार्यसामर्थ्यं, कार्यक्षमता, चिन्तनस्तरः, वैचारिकदृष्टिः इत्यादिकम् आत्मसात् भवति। तेन दीर्घकालं कार्यं कर्तुं शक्तिः प्राप्यते।
उत्तरदायित्वानुगुणं कार्यस्य विवरणम् अधोभागे लिखितं वर्तते। एतदेव अन्तिमम् इति नास्ति, अनुभवबलेन विषयेषु परिष्कारः, योजना च भवितुम् अर्हति।
उत्तरदायित्वानि
प्रत्येकम् उत्तरदायित्वस्य पृथक् पुटम् अस्ति। अधो दत्तेषु नामसु क्लिकं कृत्वा सम्बद्धस्य उत्तरदायित्वस्य विस्तारं द्रष्टुं शक्नुवन्ति।
संक्षेपः
कार्यविभागाः – १०
- प्रशिक्षणविभागः
- सम्पर्कविभागः
- अभिलेखागारः
- प्रकाशनविभागः / साहित्यम्
- प्रचारविभागः
- कार्यालयः
- कोषविभागः
- महाविद्यालयकार्यम्
- कुटुम्बशिक्षा
- विद्वत्-परिषद्
आयामाः – ६
- सम्भाषणशिबिरम्
- बालकेन्द्रम्
- विद्यालयकार्यम्
- गीताशिक्षणम्
- पत्राचारद्वारा संस्कृतम्
- श्लोकपाठनम्
प्रकल्पाः – ५
- संवादशाला
- जालपुटम् (वेबसाइट्)
- सम्भाषणसन्देशः
- ई-भारतीसम्पत्
- विकिपीडिया