महाविद्यालयप्रमुखः
प्रमुखः प्राध्यापकः भवति चेत् उत्तमम्। कारणं सः स्थायी भवति। छात्राः आगच्छन्ति गच्छन्ति च।
आदौ प्रतिमहाविद्यालयम्, अनन्तरं प्रतिपाठ्यक्रमं च कश्चन छात्रः प्रमुखः भवेत्।
प्रतिमहाविद्यालयं साप्ताहिकं मेलनं भवेत्। तत्र महाविद्यालयेषु संस्कृतसम्भाषणपाठनं, संस्कृतविषये विभिन्नाः स्पर्धाः, भित्तिपत्रकाणां संशोधनं, बाइक्-रेली, चारणं, शोभायात्रा, संस्कृतविज्ञानप्रदर्शिनी इत्यादयः कार्यक्रमाः केचन संस्कृतेन भवेयुः। प्रतिवर्षं छात्राणां संस्कृतभारत्याः वर्गार्थं प्रेषणं, विस्तारकरूपेण आगन्तुं प्रेरणं च अनेन प्रमुखेण करणीयम्।