सम्पर्कप्रमुखः
समाजे प्रतिष्ठिताः संस्कृतं पठेयुः, वदेयुः अन्यथा संस्कृतकार्यार्थं सहायकाः पोषकाः वा भवेयुः। तदा समाजे संस्कृतकार्यस्य प्रतिष्ठा, प्रभावः च सहजतया वर्धिष्यते। अतः समाजे विद्यमानानां प्रतिष्ठितानां सम्पर्कः सम्पर्कविभागस्य कार्यम् अस्ति।
- प्रभाविजनानाम् आवली श्रेण्यनुगुणं सज्जीकृता भवेत्। काले काले तस्याः परिष्कारः अपि भवेत्।
- सम्पर्कार्थम् अनुवर्तनाय च वृत्यनुगुणं श्रेणीप्रमुखाः अन्वेषणीयाः।
- कार्यक्रमेषु सम्पर्कितानाम् आह्वानं भवेत्। प्रथमवारं मञ्चे, अनन्तरम् आसन्देषु प्रथमपङ्क्तौ ते भवेयुः।
- सम्पर्कः इति काचित् कला अस्ति। सम्पर्कविभागस्य प्रशिक्षणं कार्यक्षेत्रे भवेत्। सम्पर्के ये प्रश्नाः जनैः पृष्टाः स्युः तेषां समाधानं सम्पर्कविभागस्य कार्यकर्तारः जानीयुः इति दृष्ट्या प्रशिक्षणम् आयोजनीयम्।
- सम्पर्कः अधिकतया प्रादेशिकभाषया अथवा आङ्ग्लभाषया करणीयः भवति।
- सम्पर्कार्थं संस्कृतभारती-कार्यपरिचयस्य पत्रकाणि, पत्राचारयोजनायाः करपत्राणि भवेयुः।
- संघटनकार्यवृत्तं सज्जीकृतं भवेत् प्रतिवर्षम्।
- सम्पर्कितानां जनानां विवरणम् एकत्र संगृह्य तत् प्रान्तकार्यालये रक्षणीयम्।
- प्रतिवर्षं तेभ्यः संस्कृतसप्ताहसन्दर्भे शुभाशयपत्रं प्रेषणीयम्।