॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

संघटनमन्त्री

॥ विशेषम् ॥

संघटनस्य प्रमुखः निर्णयकर्ता एषः एव भवति। संघटनस्य सर्वेषु विषयेषु – चाहे ते कार्यकारिभिः, विभागैः, आयामैः, कार्यक्रमैः वा सम्भवेयुः – एषः एव अन्तिमः निर्णयकर्ता, समर्थः, कर्ता च भवति। एषः यत् इच्छति तत् कर्तुं योजयितुं च शक्नोति; तस्य आज्ञा संघटने सर्वेषु स्थानेषु पालनीया भवति। संघटनस्य सम्पूर्णनियन्त्रणम् एतस्य एव हस्ते तिष्ठति।

एषः पूर्णकालिकः कार्यकर्ता भवति। जीवनस्य कतिचनवर्षाणि वा जीवनपूर्णं वा संस्कृतमातुः भारतमातुः च सेवायै यः समर्पितवान् सः भवति पूर्णकालिकः। संघटनस्य सर्वविधकार्येषु अस्य सहयोगः स्वाभाविकतया भवति। सर्वेषां सहकारेण सर्वैः सह मिलित्वा च संघटनकार्यस्य शक्तिवर्धने निरन्तरं प्रयासरतः भवति एषः।

संघटननिर्माणं, कार्यपद्धतेः पालनं, संघटनस्य लक्ष्यविषये कार्यकर्तृणां स्पष्टतासम्पादनं, सर्वेषाम् उत्तरदायित्वानां निर्वहणे सहाय्यं, सर्वान् पुरतः कृत्वा कार्यस्य बलदानं च संघटनमन्त्रिणः कार्यम्।

भाषान्तरणम्