॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

साहित्यप्रमुखः

समकालीनसाहित्यनिर्माणं, प्रसारः च अस्माकं कार्यविभागेषु अन्यतमः। तदर्थं प्रकाशनविभागः नियतरूपेण कार्यं करोति। प्रकाशितानां पुस्तकानां समाजस्य पुरतः उपस्थापनं, तस्य प्रचारः, विक्रयणं च व्यवस्थितरूपेण भवति चेत् एवं पुस्तकप्रकाशनेन उपयोगः। अनेन अस्माकं विचारस्य प्रसारः भवति। तदर्थं साहित्यप्रमुखाः सर्वेषु स्तरेषु अवधानं कुर्युः।

साहित्यस्य प्रसारदृष्ट्या साहित्यप्रमुखैः करणीयानि कार्याणि

  1. संस्कृतभारत्याः पुस्तकानां प्रदर्शनस्य आयोजनम्। तत्र पुस्तकविक्रयणस्य व्यवस्था भवेत्।
  2. उत्सवेषु, महाविद्यालयानां वार्षिकोत्सवेषु, पुस्तकमेलासु इत्यादिसन्दर्भेषु यत्र अधिकाः जनाः एकत्र भवन्ति तादृशेषु स्थानेषु प्रसङ्गेषु च पुस्तकप्रदर्शनं विक्रयणं च भवेत्।
  3. विद्यासंस्थानां सम्पर्कं कृत्वा अस्माभिः प्रकाशितानां पुस्तकानाम् आधारेण संस्कृतपाठनार्थम् अनुरोधः करणीयः।
  4. विभिन्नेषु पुस्तकापणेषु अपि संस्कृतभारत्याः पुस्तकानां विक्रयणं यथा भवेत् तथा प्रयासः विधेयः।
  5. अपेक्षानुसारं समये समये पुस्तकप्रेषणस्य योग्या व्यवस्था प्रान्तकेन्द्रेषु भवेत्।
  6. कार्यालयेषु पुस्तकस्थापनं प्रदर्शनं विक्रयणं च सुव्यवस्थितं स्यात्। तत्र अवधानं भवेत् साहित्यप्रमुखस्य।
  7. येभ्यः केन्द्रेभ्यः पुस्तकानि स्वीक्रियन्ते तेभ्यः केन्द्रेभ्यः समये समये पुस्तकानां धनदानं, विक्रीतानां पुस्तकानां गणना च व्यवस्थितं दोषरहितं च स्यात्। एतत् कार्यं साहित्यप्रमुखः साधयेत्।
  8. अस्माभिः प्रकाशितानां पुस्तकानां सम्भाषणसन्देश-पत्रिकायाः च पठितॄणां वाचकसम्मेलनं प्रतिपुष्टिप्राप्तिः च स्थाने स्थाने भवितुम् अर्हति।
  9. संस्कृतेन लेखकानाम् अनुवादकानां च वर्गस्य आयोजनं प्रशिक्षणविभागस्य सहयोगेन करणीयम्।
भाषान्तरणम्