पत्राचारद्वारा-संस्कृत-योजनायाः प्रमुखः
येषु कार्यालयेषु पञ्जीकरणस्य व्यवस्था वर्तते तत्र तु साक्षात् पञ्जीकरणं करणीयम्, किन्तु यत्र सा व्यवस्था नास्ति तत्रत्य जनाः जालपुटमाध्यमेन पञ्जीकरणं कुर्युः इति आग्रहः करणीयः। केचन प्रादेशिकभाषां विहाय अन्यभाषामाध्यमेन पठितुम् इच्छन्ति, तेषां पञ्जीकरणं तु कार्यालये भवितुं न अर्हति। अतः जालपुटस्य साहाय्यम् आवश्यकं भवति।
यैः जालपुटस्य माध्यमेन पञ्जीकरणं कृतं तेषां विवरणानि देहलीकार्यालयतः प्राप्तुं शक्यन्ते। प्रतिमार्चमासे सप्टेम्बरमासे च पुरातनानाम् अग्रिमपरीक्षायां, नूतनानां च प्रवेशपरीक्षायां पञ्जीकरणम् अभियानरूपेण करणीयं भवति।
- प्रान्ते तथा जनपदेषु पत्राचारयोजनायाः प्रमुखस्य निश्चयः। तेन सह कार्यं कर्तुम् एकः गणः।
- प्रतिचक्र प्रत्यक्षरूपेण वा सद्यस्कमाध्यमेन (ऑनलाइन) वा छात्राणां विविधगणं कृत्वा पाठनव्यवस्था।
- चितेषु केन्द्रेषु वर्षे द्विवारं परीक्षासंचालनम्।
- प्रान्तेषु यत्र यत्र पत्राचारस्य छात्राः सन्ति तत्र तत्र छात्राणां गोष्ठी भवेत्। तेभ्यः स्थानेभ्यः पत्राचार-प्रमुखस्य प्रवासः।
- पत्राचारछात्रान् संघटनकार्ये योजयितुं प्रमुखः सर्वदा प्रयासरतः स्यात्।
- पञ्जीकृतानां साप्ताहिक्यः कक्ष्याः आयोजनीयाः।
- ये संस्कृतमाध्यमेन च प्रादेशिकभाषामाध्यमेन एव पाठयितुं समर्थाः तेषां शिक्षकरूपेण योजना करणीया। (यथा – प्रवेश-परिचयस्तरयोः संस्कृतेन प्रादेशिकमाध्यमेन पाठनम्। शिक्षा-कोविदस्तरयोः संस्कृतमाध्यमेन एव पाठनं भवेत् इति अपेक्षा।)
- प्रविष्टप्रवेशाः कोविदं यावत् यथा गच्छेयुः तथा तेषां सम्पर्कः, प्रेरणं, साहाय्यं च करणीयम्।