॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

कुटुम्बशिक्षाप्रमुखः

संस्कृतकुटुम्बानां संख्या वर्धनीया। कुटुम्बशिक्षा किमर्थम् अपेक्षिता इति विषयः बोधनीयः। कुटुम्बेषु षोडश संस्काराः भवेयुः इति आग्रहः करणीयः। संस्कृतेः वैशिष्ट्यानि कुटुम्बे न परिलक्षितानि भवेयुः इति प्रयत्नः भवेत्। कुटुम्बप्रशिक्षणं प्रतिवर्षं करणीयं भवेत्। कुटुम्बकेन्द्रिताः कार्यक्रमाः आयोजनीयाः। पूर्वकाले कुटुम्बेषु अमरकोषस्य, सुभाषितस्य, भगवद्गीतायाः, स्तोत्रस्य च पाठनं यथा भवति स्म तथा पुनरपि आनेतुं कुटुम्बप्रमुखः कार्यं कुर्यात्।

भाषान्तरणम्