॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

मन्त्री

संघटनयन्त्रस्य चालकस्थाने स्थित्वा संघटनं निर्वहेत् इति अपेक्षा। सः संघटकः योजकः च भवेत्। मन्त्रिणः जनसंग्रहः विपुलः स्यात्, अपि च सः प्रत्येकस्मिन् कार्ये योग्यस्य जनस्य नियोजनं कर्तुं शक्नुयात्। गणनिर्माणं गणस्य संचालनं च कर्तुं समर्थः स्यात्। तेन गणीयाः प्रेरणीयाः, कार्यप्रवीणाः च करणीयाः स्वस्य उदाहरणबलेन। गणे विद्यमानः कोऽपि असफलः मा भवतु इत्यपि तस्यैव उत्तरदायित्वं भवति।

मन्त्रिणः प्रमुखाणि कार्याणि

भाषान्तरणम्