॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

सम्भाषणशिबिरप्रमुखः

एतत् उत्तरदायित्वं २१ उत्तरदायित्वेषु नान्तर्भूतम् इति तु सत्यम्। परन्तु अस्माकं सर्वेषां कार्याणाम् आत्मतत्त्वं शिबिरे एव निहितं वर्तते। शिबिराणि अधिकानि भवन्ति चेदेव अन्येषु आयामेषु कार्यं कर्तुं समर्थाः सम्भाषणशीलाः सामाजिकाः कार्यकर्तारः उपलभ्यन्ते। यद्यपि सम्भाषणशिबिरस्य तथा साप्ताहिकमेलनस्य विषये प्रान्तमन्त्री विशेषावधानं कुर्यात् इत्यस्ति तथापि तस्य सहयोगिरूपेण अन्यः भवति चेत् उत्तमम्।

सम्भाषणशिबिरप्रमुखेन शिबिरचालकानां संख्या वर्धनीया। सामाजिकानि शिबिराणि अधिकानि यथा भवेयुः तथा चिन्तनीयम्। सोपानत्रयस्य पाठ्यसामग्रयाः पाठ्योपकरणस्य च उपयोगेन शिबिरचालने आग्रहः करणीयः। शिबिरशिक्षकाः संस्कृतभारत्याः पद्धतिं पालयन्तः एव शिबिराणि चालयेयुः। अतः ये शिबिराणि चालयन्ति तेषां विमर्शवर्गः तदा तदा भवेत्।

शिबिराणाम् अनुवर्तनं महत्वपूर्णं वर्तते। शिबिरशिक्षकः एव अनुवर्तनं करोति चेत् सफलता आधिक्येन प्राप्यते। अनुवर्तनं प्रतिदिनं, साप्ताहिकं च भवितुम् अर्हति। प्रविष्टशिबिराणाम् एकं गणं निर्माय अग्रे अग्रे पाठनं करणीयम्। एतदर्थम् अभ्यासपुस्तकम्, अभ्यासदर्शिनी, विभक्तिवल्लरी, भाषाप्रवेशः, दीक्षा-पुस्तकानि इत्येतेषाम् उपयोगः कर्तुं शक्यः।

भाषान्तरणम्