विभागसंयोजकः
स्वविभागे ये जनपदाः सन्ति तेषु जनपदेषु कार्यविस्तारस्य दृढीकरणस्य च दृष्ट्या अवधानं कुर्यात्। तदर्थं जनपदेषु प्रवासः, कार्यकर्तृणां सम्पर्कः, जनपदगोष्ठीनिर्वहणं च विभागसंयोजकेन करणीयम्।
प्रान्ते चिन्तितानां कार्याणां क्रियान्वयनं स्वविभागे यथा भवेत् तथा प्रयासः। प्रान्तमन्त्रिणा सह काले काले कार्यस्य विषये परामर्शं कृत्वा विभागे विद्यमानेषु जनपदेषु संघटनस्य सर्वेषाम् आयामानां कार्यारम्भाय चिन्तनं कुर्यात् एषः।
जनपदानां प्रान्तस्य च मध्ये सेतुभूतः एषः संयोजकः उभयत्र समन्वयस्थापनं कुर्यात्।