॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

अभिलेखागारप्रमुखः

प्रान्तस्य संघटनसम्बद्धानि सर्वविधानि विवरणानि प्रान्तकेन्द्रे संगृहीतानि संरक्षितानि च भवेयुः। तदर्थम् अभिलेखागार-प्रमुखः अवधानं कुर्यात्।

अभिलेखागारप्रमुखेण संग्रहणीयाः अंशाः करणीयानि कार्याणि च

  1. प्रान्ते संस्कृतभारत्याः आरम्भकालतः कार्यं कृतवतां कार्यकर्तॄणाम् आवली। यथा – अध्यक्षः, मन्त्री, संघटनमन्त्री, प्रशिक्षणप्रमुखः इत्यादीनाम् आवली।
  2. प्रान्तस्तरतः खण्डस्तरपर्यन्तम् उत्तरदायित्ववतां कार्यकर्तृणाम् आवली सम्पर्कसंख्या च।
  3. अन्यस्मात् प्रान्तात् स्थानात् वा आगत्य प्रान्ते कार्यं कृतवतां पूर्णकालिककार्यकर्तृणां सम्पर्कसंख्यासहिता आवली।
  4. प्रान्ततः प्रस्थितानां पूर्णकालिककार्यकर्तॄणां सम्पर्कसंख्यासहिता आवली।
  5. शिबिरचालकानाम् आवली।
  6. अस्माकं विविधेषु आयामेषु ये पाठयन्तः सन्ति तादृशानां शिक्षकाणां सूची।
  7. संस्कृतकुटुम्बानाम् आवली।
  8. अस्माकं पद्धत्यनुगुणं विद्यालयेषु महाविद्यालयेषु च पाठयितृणां शिक्षकाणां विवरणम्।
  9. प्रान्तस्य कार्यवृत्तं वर्षानुगुणम्।
  10. प्रमुखकार्यक्रमाणां प्रान्तसम्मेलनानां च चित्रसहितं विवरणम्।
  11. समाजस्य प्रमुखाणां संस्कृतभारत्याः विषयकस्य वक्तव्यस्य वार्ताविवरणं ध्वनिमुद्रणानि च।
  12. प्रान्ते संस्कृतभारत्याः क्रमशः विकासस्य घटनाक्रमस्य विवरणं, ज्येष्ठकार्यकर्तॄणाम् अनुभवः इत्यादीनां संग्रहः।
भाषान्तरणम्