सहमन्त्री
एतत् अनिवार्यम् उत्तरदायित्वं नास्ति। कार्यस्य विस्तारः यदा अधिकः भवति तदा कश्चन सहायकः आवश्यकः भवति। मन्त्रिणः कार्ये, कार्याणां च क्रियान्वयने सहमन्त्रिणः सक्रियसहयोगः भवेत् इति अपेक्षा। मन्त्रिणः कश्चन उत्तराधिकारी भवेत् इत्यपि दृष्टिः सहमन्त्रिणः नियुक्तिप्रक्रियायां भवति। उभयोः कार्याणि समानानि एव, परन्तु सर्वेषु अपि सन्दर्भेषु परस्पर समन्वयेन कार्यम् अग्रे नेतव्यम्। कस्य आयामस्य, कार्यविभागस्य, क्षेत्रस्य च अवधानं केन करणीयम् इति निश्चितं भवेत्।