॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

प्रचारप्रमुखः

कार्याणाम्, परिणामानाम्, विचाराणां च प्रसिद्धिः भवेत् न तु व्यक्तेः इति तत्त्वम्। सर्वेषां संचारमाध्यमानां प्रचारार्थम् उपयोगः करणीयः। एतत् कार्यं साधयितुं प्रतिसंचारमाध्यमं कश्चन एकः निश्चितः भवेत्। प्रमुखाः निपुणाः भवेयुः तदर्थं प्रान्ते प्रान्ते प्रशिक्षणम् आयोजनीयम्।

प्रचारप्रमुखैः करणीयानि कार्याणि

  1. प्रतिदिनं पोस्ट्-लाइक्, शेअर्, कमेण्ट्।
  2. प्रान्तप्रचारसमूहनिर्माणम्। जनपदप्रचारप्रमुखस्य नियुक्तिः।
  3. प्रान्तप्रचारसमूहे (जनपदप्रचारप्रमुखः, सामग्रीनिर्माता, फोटोग्राफी-विषये अवधानकर्ता) इत्येवं चतुःपञ्चजनानां गणः भवेत्। प्रतिमासं तेषां गोष्ठी करणीया, यदि साक्षात् न शक्यते तर्हि ऑनलाइन वा भवेत्।
  4. संस्कृतभारती-वेबसाइट-प्रान्तपृष्ठं काले काले अपडेट् करणीयम्। लक्षशः जनाः स्वीयं जालपुटं पश्यन्ति एव। यदि तत्र विद्यमानं प्रान्तपृष्ठम् अद्यतनम् अस्ति तर्हि लाभाय भवति। आगामिकार्यक्रमस्य सूचना, सम्पन्नकार्यक्रमाणां वृत्तं, सम्पर्कार्थं निर्दिष्टजनस्य नाम दूरभाषाक्रमाङ्कः च इति सर्वं तत्र आरोपितं भवेत्।
  5. विशेषदिवसेषु प्रचाराभियानम्। वार्तापत्रेषु लेखाः, सोशलमीडिया-प्रचारः च।
  6. केन्द्रपक्षतः प्रान्तप्रचारप्रमुखेभ्यः व्हाट्सएप्-द्वारा विषयधाराः प्रेष्यन्ते। प्रान्तप्रचारप्रमुखाः ताः विषयधाराः अग्रे प्रेषयेयुः। सर्वे कार्यकर्तारः तत्र दृष्ट्वा लाइक्, शेअर् च कुर्युः।
  7. सामग्रीनिर्माणं प्रचारगणस्य प्रमुखकार्येषु अन्यतमम्। तेन विना प्रचारः नैव शक्यः। सामग्री संस्कृतेन यथा तथा भारते प्रचलितासु सर्वासु भाषासु अपि भवेत्। कन्टेण्ट् यावच्छक्यं विमर्शानुगुणं भवेत्, येन अपेक्षितविषयस्य प्रचारः सम्यक् भवति।
भाषान्तरणम्