॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

प्रशिक्षणप्रमुखः

संस्कृतभारत्याः मुख्यं कार्यम् अस्ति पाठनम्। यः संस्कृतभारत्याः शैल्या उत्कृष्टं पाठयति प्रशिक्षणपद्धतिं जानाति च सः तस्मिन् तस्मिन् क्षेत्रे प्रशिक्षणप्रमुखरूपेण कार्यं कुर्यात्। स्वयं पाठनम्, उत्तमानां पाठयितृणां निर्माणं च प्रशिक्षणप्रमुखस्य प्रमुखं कार्यम्।

तदर्थं तेन करणीयानि कार्याणि

  1. सर्वविधशिक्षणात्मक-आयामेषु योग्यरीत्या पाठनं यथा स्यात् तथा अवधानम्।
  2. भिन्नभिन्नप्रकारकाणां वर्गाणाम् आयोजनम्। (आवासीयाः अनावासीयाः च।)
  3. संघटस्य योजनानुगुणं प्रबोधनवर्गस्य प्रशिक्षणवर्गस्य च आयोजनं संचालनं च। विरामदिनानाम् उपलब्धतां दृष्ट्वा नूतनेभ्यः भाषाबोधनवर्गाः, कार्यकर्तृभ्यः विविधप्रकारकाः व्याकरणवर्गाः च तेन आयोजनीयाः।
  4. समर्थानां सम्भाषणशिबिरचालकानां निर्माणार्थं तेषां सक्रियतादृष्ट्या च विशेषावधानं भवेत् प्रशिक्षणप्रमुखस्य।
  5. प्रशिक्षणवर्गेषु पाठयितुं संस्कृतभारत्याः पद्धत्या पाठयितृणां योग्यस्य शिक्षकगणस्य निर्माणम्।
  6. प्रशिक्षणे भाषा, शैली, साहित्यम्, शास्त्रम् चेति चतुर्धा प्रकाराः भवन्ति। यथा बालकेन्द्रं चालयितुं भिन्नं कौशलं भिन्ना शैली च अपेक्षिता। गीताशिक्षणकेन्द्रं चालयितुं भिन्नं कौशलं भिन्नं सामर्थ्यं च अपेक्षितं भवति। सर्वे अपि शिक्षकाः स्वस्वस्तरे समर्थाः पाठनकुशलाः च भवेयुः। तदर्थं काले काले शिक्षकेभ्यः प्रशिक्षणं दातव्यम्।
  7. प्रशिक्षणवर्गेषु विविधानां शिक्षणात्मक-आयामानां चर्चा भवेत्।
  8. सर्वेषाम् आयामानां विस्तृतपरिचयः तस्य भवेत्। स्वीये प्रान्ते सर्वेऽपि शैक्षिकायामाः यथा विकसेयुः तथा अवधानं सः कुर्यात्।
भाषान्तरणम्