॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

श्लोकपाठनकेन्द्रप्रमुखः

ये कार्यकर्तारः भाषापाठने समर्थाः न सन्ति ते एतत् कार्यं कुर्युः। तेषाम् अल्पप्रशिक्षणेन ते कक्ष्यां चालयितुं समर्थाः भवन्ति। कक्ष्यां प्रति मातरः आधिक्येन आगच्छन्ति इति अनुभवः। महिलाः एकत्र आनयनं वरम्। आदौ सुभाषितानि, अनन्तरं स्तोत्राणि, अग्रे गीता अथवा दुर्गासप्तशती इत्येषाम् उच्चारणं पाठनीयम्। उच्चारणशुद्धतारक्षणं सयत्नम् अवधेयम्। प्रान्तेषु कानिचन केन्द्राणि क्रमशः भवेयुः। वर्षम् एकवारम् अस्यां योजनायां पाठयितृणां प्रशिक्षणम् अपि भवतु।

भाषान्तरणम्