॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

गीताशिक्षणकेन्द्रप्रमुखः

येषां भाषा उत्तमा जाता तेषां गीताशिक्षणकेन्द्रेषु प्रवेशः भवेत्।

प्रान्तप्रमुखेण शिक्षकाणां प्रशिक्षणं कृत्वा केन्द्राणि उद्घाटनीयानि। प्रतिप्रान्तं चितेषु नगरेषु आदौ केन्द्राणि भवेयुः इति आग्रहः भवतु।

यत्र सम्भाषणशीलानां संख्या वर्तते तत्र एव गीताशिक्षणकेन्द्रं चालनीयम्। पाठनं तु संस्कृतेन एव भवेत् इत्यत्र निश्चयः दर्शनीयः। पाठनावधिः सुदीर्घः इत्यतः वर्गार्थिनः अन्तं यथा तिष्ठेयुः तथा अवधानं करणीयम्।

भाषान्तरणम्