कार्यालयप्रमुखः
॥ विशेषम् ॥
संघटनस्य सर्वेषु कार्यविभागेषु कार्यालयप्रमुखस्य एव उत्तरदायित्वं विशालतमम् अस्ति। कार्यालये यानि सर्वाणि कार्याणि प्रचलन्ति – चाहे तानि प्रशिक्षणविभागस्य, सम्पर्कविभागस्य, प्रचारविभागस्य, कोषविभागस्य, साहित्यविभागस्य वा कार्याणि स्युः – तेषु सर्वेषु कार्यालयप्रमुखस्य एव अधिकतम-उत्तरदायित्वं भवति। पत्राचारः, पञ्जीकरणम्, पुस्तकविक्रयणम्, धनसंग्रहणम्, उपवेशनानि, विवरणानि, सर्वेषां कार्यकर्तृणां सम्पर्कः − एतत् सर्वम् कार्यालयप्रमुखस्य एव अधीनं भवति। एषः एव सम्पूर्णकार्यालयस्य आधारभूतः व्यक्तिः, सर्वेषां कार्याणाम् अन्तिमः निर्वाहकः च।
कार्यालयानां प्रकारद्वयम्। प्रथमः यत्र केवलं कार्यालयः पुस्तकविक्रयणकेन्द्रं च भवति। द्वितीयः यत्र निवासः अपि वर्तते।
सर्वे प्रान्तकेन्द्रेषु कार्यालयः भवेत् इति संघटनस्य आग्रहः। केचन कार्यालयाः संस्कृतभारत्याः, केचन भाटकेन स्वीकृताः अस्माभिः, कुत्रचित् कुत्रचित् कार्यालयानां स्वामित्वम् अन्येषां किन्तु उपयोगाय निःशुल्कं प्राप्ताः सन्ति च। सामान्यतः कार्यालये उपवेशनस्थानम्, पुस्तकविक्रयणकेन्द्रं, संगणकम्, कपाटिकाः, आसन्दाः, पातुं जलम्, शौचालयः इत्यादयः व्यवस्थाः भवेयुः एव। सूचनाप्रसारणम्, धनसंग्रहणम्, उपवेशनानि, पुस्तकविक्रयणम् एतानि कार्याणि कार्यालयद्वारा निर्वहणीयानि भवन्ति।
यः एतानि कार्याणि निर्वहति सः कार्यालयप्रमुखः। दिनपूर्णं कार्यालयप्रमुखः कार्यालये उपलब्धः भवति चेत् अत्यन्तं श्रेयस्करम्। यत्र एषा व्यवस्था सद्यः नास्ति तत्र सायम् न्यूनातिन्यूनं द्वित्रहोराः वा त्रयः वा कार्यालयप्रमुखः उपस्थितः स्यात्। सः यदि केनापि कारणेन अनुपस्थितः तर्हि तस्य स्थाने अन्यस्य नियोजनं भवेत्। विरामदिनेषु सार्वजनिकाः कार्यकर्तारः च अधिकतया कार्यालयम् आगमिष्यन्ति इत्यतः विरामदिनेषु तु कार्यालयस्य उद्घाटनम् अवश्यं भवेत्।
कार्यालयप्रमुखेन अवधातव्याः केचन प्रमुखविषयाः
- कार्यालयः निश्चिते समये उद्घाटितः भवेत्।
- स्वच्छता पेयजलव्यवस्था च सर्वदा भवेत्।
- कार्यालये पुस्तकप्रदर्शनस्य, पुस्तकविक्रयणस्य, पुस्तकप्रेषणस्य च व्यवस्था स्यात्।
- सन्देशग्राहकसंग्रहार्थं, पत्रालयद्वारा संस्कृतस्य कृते पञ्जीयनार्थं च व्यवस्था भवेत्।
- आयव्ययगणना नियतरूपेण लेखनीया। धनदातृभ्यः प्राप्तिपत्रदानं धन्यवादज्ञापनं च अवश्यं भवेत्।
- कार्यकर्तृणां सम्पर्कार्थीम् आवली सम्पर्कसंख्या च भवेत्।
- काले आयव्ययस्य सज्जता आयकरविभागाय समर्पणस्य व्यवस्था च चिन्तनीया।
- सर्वविधपत्राणां (दस्तावेजानां) योग्यरीत्या स्थापनं संरक्षणं च।