कोषप्रमुखः
संघटनस्य कार्याणि कर्तुं धनस्य आवश्यकता भवति एव। धनं पर्याप्तं चेत् कार्याणि कर्तुम् उत्साहः भवति। धनसंकलनविषये, संकलितधनस्य व्ययस्य विषये च अवधानं भवेत् कोषप्रमुखस्य इति अपेक्षा। तया दृष्ट्या कोषप्रमुखेण करणीयानि कार्याणि एवं भवितुम् अर्हन्ति।
- वर्षं संघटनकार्यं कर्तुं कियत् धनम् आवश्यकं भवेदिति आकलनं करणीयम्। वर्षस्य अनुमानित-आयव्ययस्य सज्जता।
- अनुमानितव्ययानुगुणं धनसंकलनार्थं योजना।
- प्रतिवर्षम् एकवारम् अभियानरूपेण धनसंकलनं करणीयम्। तस्यां योजनायां संघटनस्य सर्वे अपि कार्यकर्तारः भागग्रहणं कुर्युः इति आग्रहः।
- कोषं पूरयितुं विभिन्नानां मार्गाणाम् अन्वेषणं करणीयम्।
- वर्गाणां कार्यक्रमाणां च निर्वहणार्थं कियता प्रमाणेन धनस्य आवश्यकता भवति इति पूर्वम् अनुमानित-व्ययस्य आकलनं करणीयम्। तदनुगुणं धनसंग्रहस्य योजना भवेत्।
- वर्गाणां कार्यक्रमाणां च काले (गणना), आय-व्ययपत्रकस्य सज्जीकरणं च कर्तव्यम्।
- संकलितं धनं वित्तकोषे पूरयित्वा ततः एव व्ययः करणीयः। व्ययस्य प्रमाणितं प्राप्तिपत्रं भवेत्।
- धनदातृणां नाम-पता-संकेतः, दूरवाणीसंख्या इत्यादीनां स्वीकरणे अवधानम् आग्रहः च भवेत्।
- व्ययस्य लेखनं (विभागशः) करणीयम्। वार्षिकम् आयव्ययविवरणम् आयकरविभागे समये पूरणीयम्।
- धनदातृणां सम्पर्कः धन्यवादज्ञापनं च।