॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

विद्यालयकार्यप्रमुखः

अस्माभिः विद्यालयेषु यत्र संस्कृतस्य पाठनं नास्ति तत्र संस्कृतपाठनार्थं व्यवस्थितं कार्यं करणीयम् अस्ति। तदर्थम् एकः गणः सर्वेषु जनपदेषु कार्यं करोति चेत् अग्रिमसन्ततिः (न्यू जनरेशन्) सहजतया संस्कृतक्षेत्रं प्रविशति इत्यत्र नास्ति संशयः। तदर्थं विद्यालयकार्यप्रमुखः कार्यं कुर्यात् इति अपेक्षा।

विद्यालयेषु संस्कृतम् आनेतुं द्विविधप्रयासः करणीयः भवति:

  1. सरलसंस्कृतयोजना।
  2. प्राथमिकशालासु संस्कृतपाठ्यक्रमारम्भः।

करणीयानि कार्याणि

  1. सरलयोजनायां पाठयितुम् आसक्तानां शिक्षकाणां सम्पर्कः, तेषां द्वारा केन्द्राणाम् आरम्भः।
  2. सरलसंस्कृतयोजनायाः आरम्भार्थं सर्वकारीयविद्यालयानां निजिविद्यालयानां च सम्पर्कः करणीयः, अनुमतिः प्राप्तव्या च।
  3. सरलयोजनायां छात्राणां पञ्जीकरणं, पाठनं, परीक्षानिर्वहणं, मूल्याङ्कनं, प्रमाणपत्रप्रेषणम् इत्यादीनि कार्याणि सुव्यवस्थितानि यथा स्युः तथा अवधानम्।
  4. सरलाशिक्षकाणां प्रशिक्षणम्।
  5. प्रमाणपत्रप्रदानस्य कार्यक्रमाणाम् आयोजनद्वारा योजनायाः प्रचारस्य व्यवस्था।
  6. निजिविद्यालयप्रमुखाणां सम्पर्कः, अरुणवर्गतः संस्कृतं पाठयितुम् अनुरोधः च।
  7. निजिविद्यालयेषु अस्माकं पुस्तकानि आधृत्य पाठयितुम् अनुरोधः, अस्माकं पुस्तकानां परिचयः च। शिक्षकाणां प्रशिक्षणम् अपि।
  8. सर्वकारीयविद्यालयेषु अनुदानितविद्यालयेषु च कार्यरताः संस्कृताध्यापकाः अस्माकं सम्पर्ककारणात् संस्कृतमाध्यमेन सम्यक् पाठयेयुः। तदर्थं सम्पर्कः प्रशिक्षणं च।
  9. निजिविद्यालयेषु पाठयितुं सवेतनिकाः शिक्षकाः न अपेक्षिताः भवन्ति। तदर्थं तादृशानां समर्थानाम् आवली अस्माकं समीपे स्यात्।

अस्मिन् कार्यविभागे प्रमुखरूपेण शिक्षकः कार्यं कर्तुं न प्रभवति, कारणं विद्यालयानां समये शिक्षकः स्वविद्यालये भवति। अतः शिक्षकेतरः सामाजिकः कश्चन उत्तरदायित्वे योजनीयः।

भाषान्तरणम्