विद्वत्परिषदः प्रमुखः
प्रान्तस्तरे समयदाता संस्कृतविद्वान् कश्चन संयोजकः भवेत्। सः सम्पर्ककार्ये प्रान्ते विद्यमानैः विद्वज्जनैः सह सम्पर्कं रक्षेत्। तेन सह कार्यं कर्तुम् एकः गणः प्रान्ते भवतु। ज्येष्ठाः संस्कृतविद्वांसः अस्याः परिषदः सदस्याः भवेयुः। संस्कृतभारत्याः विविधेषु कार्यक्रमेषु तेषाम् आह्वानं भवेत्। वर्षम् एकवारं वा द्विवारं वा विदुषां गोष्ठी आयोजनीया।
कार्याणि
- संस्कृतभारत्याः विचाराणां प्रचारः।
- संस्कृतशिक्षणे समस्यानां निवारणाय, संस्कृतशिक्षणे गुणवर्धनाय च प्रयासः, सक्रियता च।
- शास्त्रचिन्तनम्।
- चितेषु केन्द्रेषु शास्त्रपरिचयवर्गाणाम् आयोजनम्।
- व्याख्यानम् / संगोष्ठी / सम्मेलनम् / सभा इत्यादीनाम् आयोजनम्।
- अद्यतन-आधुनिकविषयैः सह संस्कृतस्य योजनाय प्रयासः।
- विविधशास्त्रीयविषयान् आश्रित्य केचन सेवारूपेण इच्छुकान् पाठयेयुः।
- राष्ट्रियविषयान् / सामाजिकसमस्याः / समकालिकसमस्याः स्वीकृत्य चिन्तनम्।
- संस्कृतेतरविषयाणां विद्वांसः अपि विद्वत्परिषदि योजयितुं शक्याः।