बालकेन्द्रप्रमुखः
बालकेन्द्रेषु संस्कृतेन सह संस्कार, संस्कृतिः, जीवनमूल्यानि इत्यादीनां च शिक्षणं प्रदीयते इति हेतोः एषः अत्यन्तम् आकर्षकः उपक्रमः। तस्मात् बालकेन्द्रमाध्यमेन नूतनस्थाने कार्यारम्भः सरलः भवति। कार्यक्षेत्रे प्रतिदिनं बालकेन्द्राणि चलेयुः। प्रतिजनपदं कानिचन बालकेन्द्राणि यथा चलेयुः तथा प्रान्तबालकेन्द्रप्रमुखः सर्वदा प्रयासरतः स्यात्।
बालकेन्द्रचालकानां प्रतिवर्षं प्रशिक्षणं भवेत्। तत्र पाठनाय नूतनाः अंशाः योजनीयाः। बालान् अवगत्य पाठयितुं योग्यानां शिक्षकाणां चयनम्, तेषां प्रशिक्षणम्, प्रान्तस्य स्वभावानुगुणं नूतनाः प्रयोगाः, बालानां विभिन्नाः समाजाभिमुखाः कार्यक्रमाः इत्येवम् अंशाः बालकेन्द्रप्रमुखेण अवधातव्याः। बालानां माध्यमेन गृहसम्पर्कः भवेत्। पितरौ अपि संस्कृतं पठेताम् इति आग्रहः करणीयः।