॥ श्रीगणेशाय नमः ॥

संस्कृतभारती

उत्तरदायित्ववतां कार्याणि

अध्यक्षः

एषः अस्ति विष्णुरूपः, संघटनस्य पालनकर्ता। स्वीये क्षेत्रे संस्कृतभारत्याः योगक्षेमनिर्वाहकः। अस्माकं संघटनम् अस्ति मनुष्याणाम्। तेन कैश्चित् अभिप्रायभेदकारणतः घर्षणं भवितुम् अर्हति। तदा सामञ्जस्यं संस्थापयितुं कश्चित् अनुभवी मार्गदर्शकः आवश्यकः भवति। अध्यक्षः तादृशः स्यात् यः स्वानुभवबलेन पक्षातीतः सन् संघटनस्य हिताय सर्वेषु समरसताम् आनेतुं प्रयासं कुर्यात्। निर्णयप्रक्रियायां सः भागभूतः भवेत्। निर्णयानाम् उद्घोषणा तेनैव करणीया इति अस्ति काचित् परम्परा।

यदि सर्वेषां सहमतिः स्यात् तर्हि निर्णयः सहजः। यदि सहमतिः न स्यात् तर्हि यावत् सहमतिः न भवेत् तावत् निर्णयः विलम्बितः भवेत्। किन्तु सर्वदा विलम्बेन निर्णयः न उचितः। तादृशे अवसरे मध्यमार्गम् आश्रित्य अध्यक्षेण निर्णयः श्रावणीयः भवति।

अध्यक्षेण सम्पर्कः, कोषः इति विभागद्वये अधिकम् अवधानं करणीयम् इति अपेक्षा।

भाषान्तरणम्