गीताशिक्षणकेन्द्रम् (भगवद्गीताद्वारा संस्कृतम्)

गीताशिक्षणकेन्द्रम् (भगवद्गीताद्वारा संस्कृतम्)

ससंस्कृताध्ययनं, भगवद्गीताध्ययनं, योगाभ्यासः, वेदान्तजीवनम् इत्येतत् सर्वं युगपत्… पठन्तु विनूतनं पाठ्यक्रमम् अतिसरलरीत्या, उत्साहेन गीतामाध्यमेन च।
गीताशिक्षणकेन्द्रं चतुर्षु सोपानेषु विभक्तः पाठ्यक्रमः। नूतनपद्धत्या, नूतनरीत्या नूतनधारणया च पठन्तु भगवद्गीताम्। प्रतिस्तरम् ४ मासाः। चत्वारः स्तराः, प्रतिस्तरं चत्वारः मासाः, सप्ताहे ३/४ सत्त्राणि सायम् अथवा सप्ताहान्ते (शनि-रविवासरयोः)।
एषः एकः एव पाठ्यक्रमः भवतः अभीष्टेषु चतुर्षु क्षेत्रेषु भवतः मार्गं सुगमं करोति – संस्कृतं, भगवद्गीता, योगः, वेदान्तश्च।

 1. गीतासोपानम् – प्रथमभागः
 2. गीतासोपानम् – द्वितीयभागः
 3. गीताप्रवेशः – प्रथमभागः
 4. गीताप्रवेशः – द्वितीयभागः

चतुर्णां पाठ्यक्रमाणां समाप्तेः अनन्तरं भवान्/भवती न केवलं सम्पूर्णभगवद्गीतां पठितुम् अवगन्तुं च शक्ष्यति अपि तु संस्कृते उत्तमसंवादकः, लेखकश्च भविष्यति।


 श्रीकृष्णः अर्जुनाय सम्भाषणमाध्यमेन गीताम् उपदिष्टवान् ।
 भवान्/भवती अपि सम्भाषणमाध्यमेन पठतु ।
 भवान्/भवती अपि श्रीकृष्णस्य भाषां पठतु ।
 आगच्छतु ! गीताशिक्षणकेन्द्रम् अद्य एव ।

पूर्वयोग्यता –

सम्पूर्णपाठ्यक्रमस्य पाठनं संस्कृतमाध्यमेन भविष्यति। स्वाभाविकरूपेण संस्कृतेन चिन्तनं कर्तुं संस्कृतम् अवगन्तुं च अभ्यासक्रमे प्रवेशात् पूर्वं भवान्/ भवती सम्भाषणशिबिरं प्रविशेत्।


पाठ्यपुस्तकानि-

 1. गीतासोपानम् (प्रथमभागः)
 2. गीतासोपानम् (द्वितीयभागः)
 3. गीताप्रवेशः (प्रथमभागः)
 4. गीताप्रवेशः(द्वितीयभागः/प्रथमखण्डः)
 5. गीताप्रवेशः (द्वितीयभागः/द्वितीयखण्डः)


गीतासोपानस्य पाठ्यपुस्तकानि ऑनलाईनविक्रयणविभागे क्रयणार्थम् उपलब्धानि सन्ति।


अवधि (प्रतिस्तरं) :4 मासाः
शुल्कम् (प्रतिस्तरं) :रू. 300/- (पाठ्यपुस्तक-परीक्षाशुल्कसहितम्).